International Journal of Leading Research Publication

E-ISSN: 2582-8010     Impact Factor: 9.56

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 6 Issue 2 February 2025 Submit your research before last 3 days of to publish your research paper in the issue of February.

काव्यपरिप्रेक्ष्यात् श्रीमद्भागवतमहापुराणस्य

Author(s) जसराम बैरवा
Country India
Abstract काव्यस्यारम्भः मन्ये ऋग्वेदाद्भवत् इति अनुमातुं शक्यते । यतो हि काव्यस्य कृते यो मापदण्डः निर्धारितः इदानीमपि स तत्रापि सङ्गच्छते । यद्यपि वेदाः आदावेव बभूवुः तथापि काव्यत्वपरीक्षकाः तत्रापि परीक्षणं कुर्वन्ति । लौकिकसाहित्य दृष्ट्या आदिकाव्यं वाल्मीकि रामायणं विद्यते ततश्चान्यान्यपि काव्यानि संवर्धितानि । काव्यदृष्ट्या श्रीमद्भागवत्महापुराणस्य वैशिष्टयोपस्थापनात् प्राक् काव्यविषये किञ्चित् विचार्यते -
कविशब्दात् ण्यत्-प्रत्यये कृते सति 26 कवेः भावः इत्यस्मिन्नर्थे काव्यम् इति पदं निष्पन्नं भवति । ऋषिगुणान्वितं कविगुणान्वितं वा भवति काव्यं । काव्यम् कविता इत्यपि निगद्यते । काव्यशास्त्रस्य प्रणेतारः काव्यस्य नाना परिभाषाः प्रणीतवन्तः । काश्चन 27 इमाः सन्ति । -
शब्दार्थों सहितौ काव्यम् (वक्रोक्तिजीवितम् 1.17)
शब्दार्थोसहितौ वक्रकविव्यापारशालिनी ।
बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणी ।। (वक्रो. 1.7)
काव्यप्रकाशकारः आचार्यमम्मटः काव्यस्य लक्षणमित्थं व्यनक्ति तद्दोषौ शब्दार्थों गुणावनलंकृती पुनः क्वापि ।
काँश्चन आचार्यान् विहाय अन्ये शब्दार्थों काव्यं स्वीकुर्वन्ति । तद्यथा-
1. शब्दार्थों सहितौ काव्यं गद्य पद्यं च तद् द्विधा । (भामह 1.16)
2. काव्यशब्दोऽयं गुणालङ्कारसंस्कृयोः शब्दार्थयोवर्तते । (वामनः 1.1)
3. शब्दार्थों काव्यम् (रुद्रटः काव्यालङ्कारः 2.1)
4. अशब्दार्थों सगुणौ सालङ्कारौ च शब्दार्थी काव्यम् (हेमचन्द्र पृ.16)
5. शब्दार्थों निर्दोषौ सगुणौ प्रायः सालङ्कारौ च काव्यम् (वाग्भद्र पृ. 14)
6. गुणालङ्कारसहितौ शब्दार्थोदोषवर्जितौ (विद्यानाथः प्रतापरुद्र 14)
7. शब्दार्थों वपुरस्य तत्र विवुधैरात्माभ्यधायिध्वनिः (विद्याधर एकावल्ली पृ. 1,19) (काव्यप्रकाशः पृ. 24)
8. शरीरं तावदिष्टार्थव्यवच्छिन्नापदावली (काव्यादर्श 1, 9-10)
9. रीतिरात्मा काव्यस्य (वामनः काव्यालङ्कारसूत्र 1, 2, 6) काव्यास्यात्माध्वनिः (ध्वन्यालोकः 1,1)
साहित्यदर्पणग्रन्थे अनेन प्रकारेण उल्लिखतमस्ति -
तत्किं पुनः काव्यमित्युच्यते -
वाक्यं रसात्मकं काव्यम् ...........।
रसस्वरूपं निरूपयिष्यामः रसः एवात्मा साररूपतया जीवनाधायको यस्य । तेन विना तस्य काव्यत्वाभावस्य प्रतिपादितत्वात् । रस्यत इति रसः इति व्यत्पत्तियोगाद् भावतदाभासादयोऽपि गृह्यन्ते । तत्र रसो यथा -
शून्यं वासगृहं विलोक्य शयनादुत्याय किञ्तिच्छन्नै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।।
अन्वयः- रसात्मकं वाक्ये काव्यम् ।
रसः - श्रृङ्गारादिः, अनेन भावादयोऽपि गृहयन्ते आत्मा स्वरुपं प्राणतत्त्वं, यस्य तत्तादृशं, वाक्यं सार्थकपदसमूहः, काव्यं -काव्यनामभाक् इति ।
कारिकां व्याख्याति - रसेत्यादिना। रसस्वरूपं - रसस्य शृङ्गारादेः, स्वरुपं लक्षणं, निरूपयिप्यामः वक्ष्यामः ।
रसात्मकमिति । रसः शृङ्गारादिः एव न तु वस्त्वलङ्कारादिः,
आत्मा साररूपतया - मुख्यवस्तुत्वेन आनन्दसान्द्रत्वेन
श्रेष्ठभावतया, उक्तमेव -
व्यङ्ग्यव्यञ्जकभावेऽस्मिन् विविधे सम्भवत्यपि ।
रसादिमय एकस्मिन् कविः स्यादवधानवान् ।। इति ।
जीवनाधायकः = प्राणतत्वं यस्य तथेति । कथं तथेत्यपेक्षतयामाह - तेनेत्यादिना । तेन रसेन, विना तस्य काव्यस्य काव्यत्वं सिध्यति इति सिद्धान्तत्वेन सर्वेः स्वीकृतत्वात् ।
कारिकागतरसपदाशयं विवृणोति-रस्यत इत्यादिना । रस्यत आस्वाद्यत इति रसः, इति इत्थं, व्युत्पत्तियोगात्-व्युत्पत्तेः = प्रकृतिप्रत्ययविवेचनस्य, योगात् सम्बन्धात्, भावादयः = भाव-रसाभास-भावोदय-भावशान्ति-भावश-बलताद्याः, गृहयन्ते । तत्र-रतिर्देवादिविषया व्याभिचारी तथाञ्जितो भावः ।
रसाभासभावाभासाः = अनौचित्यप्रवर्तिताः रसा भावाश्च, गृह्यन्ते = परिगण्यन्ते । (साहित्यदर्पणः पृ. 34-35)
निष्कर्षरूपेण काव्ये न्यूनातिन्यूनं रसात्मकत्वं भवेदेव इति साहित्यदर्पणकारस्याभिमतम् । अलङ्कारादस्तु भूषणानि सन्त्येव काव्यस्य । कस्यचिदपि काव्यस्य मूल्याङ्कनाय एतदृष्ट्या रसपरीक्षणमनिवार्यतत्त्वं प्रतिभाति । अतः परमन्ये विषयाः आगच्छन्ति । यदि काव्ये अधिकाः गुणाः स्युः, तर्हि गुणाय एव भवन्ति इति तु निश्चितरुपेण वक्तुं शक्यते । अधिककस्याधिकं फलमित्याभाणकं प्रसिद्धमेव । रसोद्रेकापूरितं काव्यमेव जनान् आह्लादयति । एतादृशं काव्यं मानसिकसन्ताप निवारयति । रसः ब्रह्मानन्दसहोदर इव शोभते। अत एव 'रसो वै सः' इति उपनिषदि प्रदर्शितमस्ति । परमात्मा रसस्वरूपो विद्यते । तस्य परमात्मनः उपासना साहित्यिकरसमाध्यमेन क्रियते 1 श्रीमद्भागवते सर्वत्र भक्तेः चर्चा दृश्यते। अत्रापि परमात्मप्रेम एव मूले विराजते । ईश्वरे अगाधनिष्ठा श्रद्धा च प्रेम्णः प्राथमिकं लक्षणं प्रतिभाति । भक्ताः यदा कदा ईश्वरस्य प्रेम्णि क्रन्दनमपि कुर्वन्ति विरहवशात् । यादृशते भावः अस्माकं भवति तादृशो व्यवहारोऽपि जायते । भगवत्प्रीत्याः उत्कर्षः ईश्वरे शरणापत्रे सत्येव पूर्ति याति । एतादृशाः नैके भावाः ये काव्येषु भवन्ति ते श्रीमद्भागवतमहापुराणेऽपि सन्ति । अत एव काव्यदृष्ट्या श्रीमद्भागवतमहापुराणस्य वैशिष्ट्यमिहोपस्थाप्यते यथाग्रन्थम्
पश्यन्त्यदो रूपमदभ्रचक्षुषा
सहस्रपादोरुभुजननाद्भुतम् ।
सहस्रमूर्धश्रवणाक्षिनासिकं
सहस्रमौल्यम्बरकुण्डलोल्लसत् ।।
अत्र भगवतो नारायणस्य विराडूपस्य वर्णनं विलक्षणतया कृतं ग्रन्थकारेण । योगिनः दिव्यदृष्ट्यो भगवतः तस्य रूपस्य दर्शनं कुर्वन्ति । श्रीमद्भगवद्गीतायामपि श्रीभगवता अर्जुनं प्रति उत्यते -
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् । इति
सामान्यचक्षुभ्यां भगवतो दिव्यस्वरूपस्य दर्शनं न भवितुमर्हति । अतः दिव्यचक्षुषः आवश्यकता भवति । सामान्यरूपेण यदि विचार्यते तर्हि दिव्यचक्षुर्नाम शास्त्रचक्षुरेव ज्ञायते । शास्त्रैकलोचनः यथार्थज्ञानं प्राप्तुं समर्थोभवति । प्रकृतश्लोकस्य मन्ये तत्रैव तात्पर्यं विद्यते । अस्य श्लोकस्यान्वयः इत्थं कर्तुं शक्यते -
सहस्रपादोरुभुजाननान्द्भुतं सहस्रमूर्धश्रवणाक्षिनासिकं ।
सहस्रमौल्यम्बरकुण्डलोल्लसत् अदो रूपम् अदभ्रचक्षुषा पश्यन्ति (योगिनः) ।
श्लोकेऽस्मिन् पुरुषसूक्तस्थमन्त्रस्य प्रभावः स्पष्टतया ज्ञातुं शक्यते । तद्यथा -
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं सर्वतपृत्वा-त्यतिष्ठद्दशाङ्गुलम् ।। इति ।
मत्रेऽस्मिन् पुरुष (विराट्-पुरुषस्य) सहस्रशीर्षा, सहस्राक्षः, सहस्रपात् इति विशेषणं विद्यते । सहस्रं शिरांसि सन्ति यस्य सः सहस्रशीर्षा । सहस्रम् अक्षीणि सन्ति यस्य स सहस्राक्षः सहस्र पादाः सन्ति यः स सहस्रपात् इति । एतादृशः सविशेषणः यः पुरुषः सः सर्वतस्पृत्वा भूमिम् अत्यतिष्ठत् दशाङ्गुलमुपरि इति । श्रीमद्भगवतमहापुराणस्य श्लोकं विचारयामश्चेत् तत्रापि 'सहस्रपादोरुभुजाननाद्भुतं यद्रूपम्, सहसर्मूर्धश्रवणाक्षिनासिकं यद्रूपम्, सहस्रमौल्यम्बरकुण्डलोल्लसत् यद्रूपम्, तद्रूपम् योगिनः ज्ञानचक्षुषा दिव्यचक्षुषा, विवेकचक्षुषा वा पश्यन्ति ।
प्रसङ्गऽस्मिन् रूपकावलम्बनं परिलक्ष्यते । यतो हि सहस्रपादवान् कश्चित् भवति इति विचारः विचारमात्रमेव विद्यते । यतो हि अत्र मनुष्य इव विमर्शः प्रचलति । मनुष्यरूपेणैव परमात्मनः अपि विचारः क्रियते । किन्तु नायं सामान्यः श्लोकः अपितु गम्भीरार्थसमायुक्तो विद्यते । अत्र विश्वस्य वर्णनं कृतं ग्रन्यकारेणा परमात्मा सर्वत्र व्याप्रोऽस्ति; अतः 'सहस्रम्' इति पदेन निश्चितसङ्ख्यायाः बोधो न जायते। असङ्ख्यातार्थे सहस्रशब्दस्य प्रयोगो दृश्यते । अत एवात्र गूढार्थन्वितं काव्यत्वं सङ्गच्छते ।
गोप्याददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ।
वक्रं निनीय भयभावनया स्थितस्य
सा मां विमोहयति भीरपि यद्विभेति ।।
इयमुक्तिः देव्याः कुन्त्याः वर्तते । भगवतः श्रीकृष्णस्य बाललीलायाः वर्णनमत्र दृश्यते । कुन्ती वदति-यदा बाल्याकाले भवान् दुग्धस्य मृत्तिकापात्रस्य भञ्जनं कृतवान् तदा माता यशोदा ईषत्कोपवशात् हस्ते दाम (रज्जुम्) गृहीतवती भवतः बन्धनाय । तां यशोदां विलोक्य भवतः चक्षुषोः अश्रुणि समागतानि, नेत्रयोः चाञ्चल्यमपि समागतम् । भयभयात् भवान् मुखमधः कृतवान् प तां दशां ध्यात्वा अहमद्यापि मोहिता भवामि । यतो हि यस्य
भयात् भयमपि भयं प्राप्नोति । यः कालस्यापि कालो वर्तते । तस्य इयं दशा वर्तते ।
धन्यं भारतवर्षम्, धन्या सा माता, धन्यं गन्दगृहम्, धन्यं वृन्दावनम्, धन्यातिधन्यतमं भगवतो बालरूपम् । श्लोकमेकं पठित्वा अर्थ विज्ञाय सहसा भगवतः स्वरूपं तत् हृदये प्रवशति । कर्मबन्धनस्य भेदको विद्यते यः सोऽद्य मातुः स्नेहपाशेन बन्धानाय नतमुखः स्थितोऽस्ति । यस्य कृपाकटाक्षेण संसारे उत्सवाः मूर्तिमन्तः सन्तः नृत्यन्ति । यस्य मानसिकसङ्कल्पेन सर्गस्थितिप्रलयाः भवन्ति । यस्य ध्यानं कृत्वा भक्ताः असारसंसारं परित्यज्य परमधाम गच्छन्ति । सोऽयं मातुः भयात् भीतः सन् नेत्राभ्यामश्रूणि मुञ्चति ।
वस्तुतः अत्र मातुः यशोदयाः भगवतो बालकृष्णस्य च उत्तमरीत्या वर्णनं विद्यते । एतादृशं काव्यं मनसि आनन्दं जनयति । अत एवोच्यते -
शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः
स्मरन्ति नन्दति तवेहितं जनाः ।
त एव पश्यन्त्यचिरेण तावकं
भवप्रवाहोपरमं पदाम्बुजम् ।।
भक्ताः पुनः पुनः भगवतः चरित्रं शृण्वन्ति, गायन्ति, स्मरन्ति, नन्दन्ति च। एतादृशा भक्ता एव पारं गच्छन्ति । शरशय्यासीनः पितामहो भीष्मः भगवता सह पाण्डवैः आवेष्टितोऽस्ति । सम्प्रति प्राणत्यागस्य कालः समागतः इति विषयं विचिन्त्य भगवन्तं प्रति उवाच -
भक्त्याऽऽवेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।
त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ।।
स देवदेवो भगवान् प्रतीक्षतां
कलेवरं यावदिदं हिनोम्यहम् ।
प्रसन्नहासारुणलोचनोल्लस-
न्मुखाम्बुजो ध्यानपथश्चतुर्भुजः ।।
अत्रायम्माशयः भक्त्या आवेश्य मनः वाचा यन्नाम कीर्तयन् कलेवरं त्यजन् योगी कामभिः तथा कर्मभिः मुच्यते । स एव देवानामपि देवः देवदेवो = भगवान् प्रसत्रहासारुणलोचनोल्लसन्मुखम्बुजो ध्यानपथश्चतुर्भजः यावत् अहं (भीष्मः) हिनोमि तावत् प्रतीक्षताम् ।
सत्यमिदं यत् भक्तस्य वशे परमात्मा तिष्ठति नोचेत् भीष्मः ज्ञात्वापि
स्नेहो विद्यते । यस्य दर्शनमात्रेण संसारान्मुक्तिर्जायते, स भगवान् अद्य भक्तस्य भावनया आबद्धः सन् प्रतीक्षते । उच्यते च -
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवै-
र्वेदैः साङ्गपदक्रमोरनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरा सुरगणा देवाय तस्मै नमः। इति।
यं भगवन्तं ब्रह्मा वरुणेन्द्ररुद्रमरुतः दिव्यैः स्तवैः स्तुवन्ति, वेदैः साङ्गपदक्रमोपनिषदैः यं सामगाः गायन्ति, यं योगिनः ध्यानावस्थिततगतेन मनसा पश्यन्ति, यस्य अन्तं सुरासुरगणाः न विदुः, तस्मै देवाय नमः । यः परात्परब्रह्मस्वरूपः नारायणः विराट् पुरुषः जगदाधारः जगन्नियन्ता विद्यते; सोऽपि भक्तस्य देवव्रतभीष्मस्य कृते चतुर्भुजरूपेण उपस्थितो जातः । अत्र काव्यस्य स्वरूपमुत्तमं विद्यते ।
उपमायाः निदर्शनम् -
स उच्चकाशे धवलोदरोऽ-
प्युरुक्रमस्याधरशोणिमा ।
दाध्मायमानः करकञ्जसम्पुटे
यथाव्जखण्डे कलहंस उत्स्वनः ।।
आनत्तदिशं प्रविश्य तत्रत्यजनैः सह मिलित्वा तेषां व्यथां विज्ञाय तेभ्यः सन्त्वनां प्रदाय स्वश्रेष्ठशङ्ख पाञ्चजन्यनामकं प्रदध्म । यदा भगवतः अधरेण शङ्खः संयुक्तो जातः, तदा अधरस्य रक्तिमया सह संयुज्य तथा प्रतीयते यथा रक्तकमले राजहंसः उपविश्य उच्चैः मधुरगानं करोति ।
Keywords .
Field Arts
Published In Volume 6, Issue 2, February 2025
Published On 2025-02-04
Cite This काव्यपरिप्रेक्ष्यात् श्रीमद्भागवतमहापुराणस्य - जसराम बैरवा - IJLRP Volume 6, Issue 2, February 2025.

Share this